भैरवी-झाँपताल
अजं निर्विकल्पं निराकारमेकं
निरानन्दमानन्दमद्वैतपूर्णम् ।
परं निर्गुणं निर्विशेषं निरीह ।
परब्रह्मरूपं गणेशं भजेम ।।
गुणातीतमानं चिदानन्दरूपं
चिदाभासकं सर्वगं ज्ञानगम्यम् ।
मुनिध्येयमाकाशरूपं परेशं
परब्रह्मरूपं गणेशं भजेम ।।
जगत्कारणं कारणज्ञानरूपं
सुरादिं सुखादिं गणेशं गुणेशम् ।
जगद्व्यापिनं विश्ववन्द्यं सुरेशं
परब्रह्मरूपं गणेशं भजेम ॥